|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.129. अध्यायः 129
Mahabharata - Udyoga Parva - Chapter Topics
विदुरेण धृतराष्ट्राज्ञया गान्धार्याः सभां प्रत्यानयनम् ॥ 1 ॥ गान्धार्या दुर्योधनं पुनः सभामानाय्य तंप्रति नीतिकथ नपूर्वकं पाण्डवैः सह शमविधानम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-129-0x(3766)(36132)
कृष्णस्य तु वचः श्रुत्वा धृतराष्ट्रो जनेश्वरः।
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ॥ 5-129-1(36133)
गच्छ तात महाप्राज्ञ गान्धारीं दीर्घदर्शिनीम् ।
आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् ॥ 5-129-2(36134)
यदि सा न दुरात्मानं शमयेद्दुष्टचेतसम्।
अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम् ॥ 5-129-3(36135)
दुर्बुद्धेर्दुःसहायस्य शमार्थं ब्रुवती वचः ॥
अपि नो व्यसनं घोरं दुर्योधनकृतं महत् । 5-129-4(36136)
शमयेच्चिररात्राय योगक्षेमवदव्ययम् ।
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् । 5-129-5(36137)
आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ॥ 5-129-6(36138)
धृतराष्ट्र उवाच। 5-129-7x(3767)
एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः ।
ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ॥ 5-129-7(36139)
अशिष्टवदमर्यादः पापैः सह दुरात्मवान्।
सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः ॥ 5-129-8(36140)
वैशम्पायन उवाच। 5-129-9x(3768)
सा भर्तृवचनं श्रुत्वा राजपुत्री यशस्विनी ।
अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ॥ 5-129-9(36141)
आनायय सुतं क्षिप्रं राज्यकामुकमातुरम् ।
नहि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना ।
आप्तुमाप्तं तथाऽपीदमविनीतेन सर्वथा ॥ 5-129-10(36142)
त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः ।
यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे ॥ 5-129-11(36143)
स एष काममन्युभ्यां प्रलब्धो लोभमास्थितः ।
अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ॥ 5-129-12(36144)
राष्ट्रप्रदाने मूढस्य बालिशस्य दुरात्मनः ।
दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्रुते फलम् ॥ 5-129-13(36145)
कथं हि स्वजने भेदमुपेक्षेत महीपतिः।
भिन्नं हि स्वजनेन त्वां प्रहरिष्यन्ति शत्रवः ॥ 5-129-14(36146)
या हि शक्या महाराज साम्ना भेदेन वा पुनः ।
निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ॥ 5-129-15(36147)
वैशम्पायन उवाच। 5-129-16x(3769)
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम्।
मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ॥ 5-129-16(36148)
स मातुर्वचनाकाङ्क्षी प्रविवेश पुनः सभाम् ।
अभिताम्रेक्षणः क्रोधान्निश्वसन्निव पन्नगः ॥ 5-129-17(36149)
तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् ।
विगर्हमाणा गान्धारी शमार्थं वाक्यमब्रवीत् ॥ 5-129-18(36150)
दुर्योधन निबोधेदं वचनं मम पुत्रक ।
हितं ते सानुबन्धस्य तथाऽऽयत्यांसुखोदयम् ॥ 5-129-19(36151)
दुर्योधन यदाह त्वां पिता भरतसत्तम ।
भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः ॥ 5-129-20(36152)
भीष्मस्य तु पितुश्चैव मम चापचितिः कृता ।
भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ॥ 5-129-21(36153)
न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते ।
अवाप्तुं रक्षितुं वाऽपि भोक्तुं भरतसत्तम ॥ 5-129-22(36154)
न ह्यवश्येन्द्रियो राज्यमश्रीयाद्दीर्घमन्तरम्।
विजितात्मा तु मेधावी स राज्यमभिपालयेत् ॥ 5-129-23(36155)
कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः ।
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ॥ 5-129-24(36156)
लोकेश्वर प्रभुत्वंहि महदेतद्दुरात्मभिः ।
राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् ॥ 5-129-25(36157)
इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः ।
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ॥ 5-129-26(36158)
अविधेयानि हीमानि व्यापादयितुमप्यलम् ।
अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ 5-129-27(36159)
अविजित्य य आत्मानममात्यान्विजिगीषते।
अमित्रान्वाऽजितामात्यः सोऽवशः परिहीयते ॥ 5-129-28(36160)
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ 5-129-29(36161)
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरमत्यर्थं श्रीर्निषेवते ॥ 5-129-30(36162)
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः ॥ 5-129-31(36163)
याभ्यां हि देवाः स्वर्यातुः स्वर्गस्य पिदधुर्मुखम् ।
बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ॥ 5-129-32(36164)
कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः ।
सम्यग्विजेतुं यो वेद स महीमभिजायते ॥ 5-129-33(36165)
सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः ।
ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ॥ 5-129-34(36166)
कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते।
स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ॥ 5-129-35(36167)
एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः ।
पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी ॥ 5-129-36(36168)
यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः।
आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ॥ 5-129-37(36169)
प्रपद्यष्व महाबाहुं कृष्णमक्लिष्टकारिणम्।
प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ॥ 5-129-38(36170)
सुहृदामर्थकामानां यो न तिष्ठति शासने।
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ॥ 5-129-39(36171)
न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम्।
न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ॥ 5-129-40(36172)
भीष्मेण हि महाप्राज्ञ पित्र ते बाह्लिकेन च।
दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भतैररिन्दम ॥ 5-129-41(36173)
तस्थ चैतत्प्रदानस्य फलमद्यानुपश्यसि ।
यद्भुङ्क्षे पृथिवीं कृत्स्नां शूरैर्निहतकण्टकाम् ॥ 5-129-42(36174)
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम ।
यदीच्छसि सहामात्यो भोक्तुमर्धं प्रदीयताम् ॥ 5-129-43(36175)
अलमर्धं पृथिव्यास्ते महामात्यस्य जीवितुम् ।
सुहृदां वचने तिष्ठन्यशः प्राप्स्यति भारत ॥ 5-129-44(36176)
श्रीमद्भिरात्मवद्भिस्तैर्बुद्धिमद्भिर्जितेन्द्रियैः ।
पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ॥ 5-129-45(36177)
निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम्।
स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ ॥ 5-129-46(36178)
अलमङ्ग निकारोऽयं त्रयोदशसमाः कृतः ।
शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ॥ 5-129-47(36179)
न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति ।
सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ॥ 5-129-48(36180)
भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये।
धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् ॥ 5-129-49(36181)
अमर्षवशमापन्नो मा कुरूंस्तात जीघनः ।
एषा हि पृथिवी कृत्स्ना मा गमत्त्वत्कृते वधम् ॥ 5-129-50(36182)
यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः।
योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ॥ 5-129-51(36183)
समं हि राज्यं प्रीतिश्च स्थानं हि विदितात्मनाम् ।
पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ॥ 5-129-52(36184)
राजपिण्डभयादेते यदि हास्यन्ति जीवितम् ।
न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ॥ 5-129-53(36185)
न लोभादर्थसंपत्तिर्नराणामिह दृश्यते ।
तदलं तात लोभेन प्रशाम्य भरतर्षभ ॥ ॥ 5-129-54(36186)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-129-19 आयत्यां परिणामे ॥ 5-129-21 अपचितिः पूजा ॥ 5-129-23 दीर्घमन्तरं चेरकालम् ॥ 5-129-29 महद्राज्यं । महद्राज्यविशालयोरिति विश्वः ॥ 5-129-31 क्षुद्राक्षेण सूक्ष्मच्छिद्रेण ॥ 5-129-32 याभ्यां पिदधुः तौ कामक्रोधावित्यध्याहारेण योजना ॥ 5-129-33 अभिजायते शास्ति ॥ 5-129-47 निकारः अपकारः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|